|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.61. अध्यायः 061
Mahabharata - Bhishma Parva - Chapter Topics
धृष्टद्युन्मेन शलपुत्रवधः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-61-0x(4129)(41351)
द्रौणिर्भूरिश्रवाः शत्यश्चित्रसेनश्च मारिषः।
पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन् ॥ 6-61-1(41352)
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः।
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥ 6-61-2(41353)
नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे ।
बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥ 6-61-3(41354)
तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम्।
दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत् ॥ 6-61-4(41355)
पीडयानं तु तत्सैन्यं पौत्रं तव विशांपते।
दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥ 6-61-5(41356)
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् ।
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥ 6-61-6(41357)
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् ।
व्यदृश्यत महच्चापं समरे युध्यतः परैः । 6-61-7(41358)
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः ।
ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः ॥ 6-61-8(41359)
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन ।
शितेनोरगसंकाशां पत्रिणाभिजघान ताम् ॥ 6-61-9(41360)
शल्यस्य च महावेगानस्यतः समरे शरान्।
`धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः'
जघानार्जुनदायादश्चतुर्भिश्चतुरो हयान् ॥ 6-61-10(41361)
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः।
नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात् ॥ 6-61-11(41362)
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः ।
पञ्चविंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥ 6-61-12(41363)
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि।
सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥ 6-61-13(41364)
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ ।
ददर्श राजन्पाञ्चल्यः सेनापतिररिन्दम ॥ 6-61-14(41365)
स वारणरथोघानां सहस्रैर्बहुभिर्वृतः।
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥ 6-61-15(41366)
`पारावताश्वः स रथमास्थाय परवीरहा'
धनुर्विष्फार्य संक्रुद्धो नोदयित्वा च वाहिनीम् ।
ययौ तं मद्रकानीकं केकयांश्च परंतप ॥ 6-61-16(41367)
तेन कीर्तिमता गुप्तमनीकं दृढधन्वना।
संरब्धरथनागाश्वं योत्स्यमानमशोभत ॥ 6-61-17(41368)
सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः ।
त्रिभिः शारद्वतं बाणैर्जत्रदेशे समार्पयत् ॥ 6-61-18(41369)
ततः स मद्रकान्हत्वा दशैव दशभिः शरैः ।
पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः ॥ 6-61-19(41370)
दमनं चापि दायादं पौरवस्य महात्मनः ।
जघान विमलाग्नेण नाराचेन परंतपः ॥ 6-61-20(41371)
ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् ।
अविध्यत्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥ 6-61-21(41372)
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्।
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥ 6-61-22(41373)
अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत् ।
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥ 6-61-23(41374)
स हताश्वे रते तिष्ठन्ददर्श भरतर्षभ ।
पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥ 6-61-24(41375)
स प्रगृह्य महाघोरं निस्त्रिंशवरमायसम् ।
पदातिस्तूर्णमानर्च्छद्रथस्यं पुरुषर्षभः ॥ 6-61-25(41376)
तं महौघमिवायान्तं स्वात्पतन्तमिवोरगम् ।
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥ 6-61-26(41377)
दीप्यमानमिवादित्यं मत्तवारणविक्रमम् ।
अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥ 6-61-27(41378)
तस्य पाञ्चालदायादः प्रतीपमभिधावतः।
शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥ 6-61-28(41379)
बाणवेगमतीतस्य तथाभ्याशमुपेयुषः ।
त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥ 6-61-29(41380)
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् ।
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥ 6-61-30(41381)
तं निहत्य गदाग्रेण स लेभे परमां मुदम्।
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥ 6-61-31(41382)
तस्मिन्हते महेष्वासे शल्यपुत्रे महारथे ।
हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥ 6-61-32(41383)
ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतामात्मजम् ।
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥ 6-61-33(41384)
तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ ।
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥ 6-61-34(41385)
ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा।
आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम् ॥ 6-61-35(41386)
तथैव पार्षतं शूरं शल्यः समितिशोभनः।
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥ ॥ 6-61-36(41387)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे एकषष्टितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-61-1 सांयमनेः शलस्य पुत्रः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|